मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् १

संहिता

आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् ।
यया॒ ज्योति॑र्वि॒दासि॑ नः ॥

पदपाठः

आ । नः॒ । प॒व॒स्व॒ । धार॑या । पव॑मान । र॒यिम् । पृ॒थुम् ।
यया॑ । ज्योतिः॑ । वि॒दासि॑ । नः॒ ॥

सायणभाष्यम्

हे पवमानसोम त्वं धारया नोस्माकं आपवस्व सर्वतः क्षर । किं रयिं धनं पृथुं विस्तीर्णं यया धारया ज्योतिर्द्योतमानं यज्ञं स्वर्गवा विदासि लंभयसि नोस्माकं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५