मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् २

संहिता

इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय ।
रा॒यो ध॒र्ता न॒ ओज॑सा ॥

पदपाठः

इन्दो॒ इति॑ । स॒मु॒द्र॒म्ऽई॒ङ्ख॒य॒ । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ।
रा॒यः । ध॒र्ता । नः॒ । ओज॑सा ॥

सायणभाष्यम्

हे इन्दो सोम हे समुद्रमींखय समुद्रमित्युदकनाम ईखयतिर्गतिकर्मा उदकमेरक तथा हे विश्वमेजय विश्वस्य सर्वस्यास्मच्छत्रोः कंपयितः सोम त्वं ओजसा त्वदीयेन बलेन नोस्मभ्यं रायो धनस्य धर्ता धारकः पवस्व भवेत्यर्थः । अत्र यद्यप्युदकप्रेरणसर्वशत्रुकंपने संबोधनान्तर्गतत्वादुद्देश्यगते तथापि यजमानस्यापेक्षितेइति रायो धर्तृत्ववदाशास्ये अधिगन्तव्ये ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५