मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् ३

संहिता

त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
क्षरा॑ णो अ॒भि वार्य॑म् ॥

पदपाठः

त्वया॑ । वी॒रेण॑ । वी॒र॒ऽवः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ।
क्षर॑ । नः॒ । अ॒भि । वार्य॑म् ॥

सायणभाष्यम्

हे वीरवो वीरवन् सोम वीरेण त्वया साधनेन पृतन्यतः संग्राममिच्छतः शत्रूनभिष्याम अभिभवेम अतोनोस्माकं वार्यं वरणीयं धनमभिक्षर अभि- गमयेत्यर्थः । अथवा वरणीयं सोमाख्यं धनं क्षर पवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५