मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् ४

संहिता

प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषि॑ः ।
व्र॒ता वि॑दा॒न आयु॑धा ॥

पदपाठः

प्र । वाज॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । सिसा॑सन् । वा॒ज॒ऽसाः । ऋषिः॑ ।
व्र॒ता । वि॒दा॒नः । आयु॑धा ॥

सायणभाष्यम्

सोमः वाजमन्नं प्रेष्यति प्रेरयति यजमानेभ्यः । किंकुर्वन् सिषासन् यजमानान् संभक्तुमिच्छन् ईदृशइन्दर्वाजसाः अन्नस्य दाता ऋषिः सर्वस्यद्रष्टा व्रता व्रतानि कर्माणि आयुधानि च विदानोजानन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५