मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् ५

संहिता

तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि ।
सोमं॒ जन॑स्य॒ गोप॑तिम् ॥

पदपाठः

तम् । गीः॒ऽभिः । वा॒च॒म्ऽई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ ।
सोम॑म् । जन॑स्य । गोऽप॑तिम् ॥

सायणभाष्यम्

तं सोमं गीर्भिः स्तुतिभिः स्तौमीतिशेषः । किंच वाचमींखयं वाचःप्रेरयितारं पुनानं पूयमानं तं सोमं वासयामसि वासयामः श्रयणद्रव्यैः । कीदृशं सोमं जनस्य गोपतिं गवां पालकं यद्वैकमेववाक्यं उक्तविशेषणविशिष्टं सोमं स्तुतिभिर्वासयामइति । माधवस्तु-वाचमितिपृथक्पदं तिङन्तंकृत्वा वाक्यद्वयं चकार ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५