मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३५, ऋक् ६

संहिता

विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पते॑ः ।
पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥

पदपाठः

विश्वः॑ । यस्य॑ । व्र॒ते । जनः॑ । दा॒धार॑ । धर्म॑णः । पतेः॑ ।
पु॒ना॒नस्य॑ । प्र॒भुऽव॑सोः ॥

सायणभाष्यम्

वश्वः सर्वोजनो मनुष्यो यजमानः यस्य सोमस्य व्रते कर्मणि दाधार धारयति मनइतिशेषः । कीदृशस्य यस्य धर्मणः कर्मणः पतेः पालकस्य पुनानस्य पूयमानस्य प्रभूवसोः प्रभूतधनस्य ॥ ६ ॥

असर्जीतिषळृचं द्वादशं सूक्तं ऋष्याद्याः पूर्ववत् । असर्जीत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५