मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् २

संहिता

स वह्नि॑ः सोम॒ जागृ॑वि॒ः पव॑स्व देव॒वीरति॑ ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

पदपाठः

सः । वह्निः॑ । सो॒म॒ । जागृ॑विः । पव॑स्व । दे॒व॒ऽवीः । अति॑ ।
अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

सायणभाष्यम्

हे सोम सवह्निर्वाहकः जागृविर्जागरूको देववीर्देवकामस्त्वं मधुश्चतं मधुस्राविकोशं दशापवित्रमतिक्रम्याभिपवस्व द्रोणकलशं प्रति क्षर ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६