मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् ३

संहिता

स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।
क्रत्वे॒ दक्षा॑य नो हिनु ॥

पदपाठः

सः । नः॒ । ज्योतीं॑षि । पू॒र्व्य॒ । पव॑मान । वि । रो॒च॒य॒ ।
क्रत्वे॑ । दक्षा॑य । नः॒ । हि॒नु॒ ॥

सायणभाष्यम्

हे पूर्व्य पुराण पवमान सोम सत्वं नोस्माकं ज्योतींषि दिव्यानि स्थानानि विरोचय प्रकाशय । किंच क्रत्वे कर्मणे यागाय दक्षाय बलाय बलप्रदाय यागायवा नोस्मान् हिनु प्रेरय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६