मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् ४

संहिता

शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
पव॑ते॒ वारे॑ अ॒व्यये॑ ॥

पदपाठः

शु॒म्भमा॑नः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः ।
पव॑ते । वारे॑ । अ॒व्यये॑ ॥

सायणभाष्यम्

ऋतायुभिः यज्ञकामैः ऋत्विग्भिः शुंभमानोलंक्रियमाणः तेषामेव गभस्त्योर्हस्तयोर्मृज्यमानः सोमः अव्यये अविमये वारे वाले दशापवित्रे पवते पूयते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६