मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् ५

संहिता

स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।
पव॑ता॒मान्तरि॑क्ष्या ॥

पदपाठः

सः । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमः॑ । दि॒व्यानि॑ । पार्थि॑वा ।
पव॑ताम् । आ । अ॒न्तरि॑क्ष्या ॥

सायणभाष्यम्

सोभिषूयमाणः सोमोदाशुषे हविर्दात्रे विश्वा सर्वाणि वसु वसूनि धनानि आपवतां प्रयच्छतु । विश्वानीत्युक्तस्य विवरणं शिष्टम् । दिव्यानि दिविभवानि पार्थिवा पृथिवीसंबन्धीनि अंतरिक्ष्या अन्तरिक्षेभवानिच पवतां ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६