मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३६, ऋक् ६

संहिता

आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।
वी॒र॒युः श॑वसस्पते ॥

पदपाठः

आ । दि॒वः । पृ॒ष्ठम् । अ॒श्व॒ऽयुः । ग॒व्य॒ऽयुः । सो॒म॒ । रो॒ह॒सि॒ ।
वी॒र॒ऽयुः । श॒व॒सः॒ । प॒ते॒ ॥

सायणभाष्यम्

हे सोम त्वं स्तोतॄणां अश्वयुरश्वमिच्छन् गच्ययुर्गाइच्छन् वीरयुः पुत्रानिच्छन् दिवः पृष्ठं द्युलोकमारोहसि आहुतिद्वारा हे शवसस्पते अन्नस्यपालक ॥ ६ ॥

ससुतइति षळृचं त्रयोदशं सूक्तं रहूगणस्यार्षं गायत्रं सौम्यं अनुक्रमयतेच-ससुतोरहूगणइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६