मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् १

संहिता

स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥

पदपाठः

सः । सु॒तः । पी॒तये॑ । वृषा॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥

सायणभाष्यम्

सः सोमः पीतये इन्द्रादिपानाय सुतोभिषुतो वृषा वर्षणः सन् पवित्रे अर्षति गच्छति । किंकुर्वन् रक्षांसि विघ्नन् देवयुर्देवकामः सइत्यन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७