मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् २

संहिता

स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।
अ॒भि योनिं॒ कनि॑क्रदत् ॥

पदपाठः

सः । प॒वित्रे॑ । वि॒ऽच॒क्ष॒णः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।
अ॒भि । योनि॑म् । कनि॑क्रदत् ॥

सायणभाष्यम्

ससोमो विचक्षणः पश्यतिकर्म एतत् सर्वस्यद्रष्टा हरिर्हरितवर्णः सोमो धर्णसिः सर्वस्य धारकः पवित्रे अर्षति गच्छति पश्चात् कनिक्रदत् शब्दंकुर्वन् योनिं स्थानं द्रोणकलशमभि गच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७