मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् ३

संहिता

स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥

पदपाठः

सः । वा॒जी । रो॒च॒ना । दि॒वः । पव॑मानः । वि । धा॒व॒ति॒ ।
र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥

सायणभाष्यम्

सवाजी वेजनवानश्वस्थानीयोदिवः स्वर्गस्य रोचना रोचकः पवमानः पूयमानो विधावति । कीदृशः रक्षोहा रक्षोहन्ता अव्ययं वारं दशापवित्र- मतीत्य च धावति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७