मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् ४

संहिता

स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।
जा॒मिभि॒ः सूर्यं॑ स॒ह ॥

पदपाठः

सः । त्रि॒तस्य॑ । अधि॑ । सान॑वि । पव॑मानः । अ॒रो॒च॒य॒त् ।
जा॒मिऽभिः॑ । सूर्य॑म् । स॒ह ॥

सायणभाष्यम्

ससोमस्त्रितस्य महर्षेः अधिसानवि समुच्छ्रिते यज्ञे । अधीति सप्तम्यर्थानुवादी । पवमानः पूयमानः जामिभिः प्रव्रुद्धैः बन्धुभूतैर्वा स्वतेजोभिः सह सहितःसन् सूर्यमरोचयत् प्रकाशितवान् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७