मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् ५

संहिता

स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।
सोमो॒ वाज॑मिवासरत् ॥

पदपाठः

सः । वृ॒त्र॒ऽहा । वृषा॑ । सु॒तः । व॒रि॒वः॒ऽवित् । अदा॑भ्यः ।
सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ॥

सायणभाष्यम्

सवृत्रहा वृषा वर्षकः सुतोभिषुतो वरिवोवित् यष्टुर्धनस्यलंभकः अदाभ्यः आ दातृभ्योन्यैरदंभनीयः सोमो वाजमिव संग्राममश्वइवासरत् गच्छति कलशं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७