मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३७, ऋक् ६

संहिता

स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।
इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥

पदपाठः

सः । दे॒वः । क॒विना॑ । इ॒षि॒तः । अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ।
इन्दुः॑ । इन्द्रा॑य । मं॒हना॑ ॥

सायणभाष्यम्

ससोमो देवइन्दुः क्लिद्यमानः कविना क्रान्तप्रज्ञेन अध्वर्युणा इषितः प्रेरितःसन् द्रोणानि द्रोणकलशानभिधावति अभिगच्छति । किमर्थं इन्द्रा- येन्द्रार्थं मंहना महान् सइति समन्वयः ॥ ६ ॥

एषइति षळृचं चतुर्दशंसूक्तं ऋष्याद्याः पूर्ववत् । एषउस्यत्रितइत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७