मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् १

संहिता

ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।
गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥

पदपाठः

ए॒षः । ऊं॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।
गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

स्यः सप्रसिद्धः एषोभिषुतः सोमोवृषा वर्षितारथोरंहणस्वभावः अव्योवारेभिः अवेर्वालैः दशापवित्रेणार्षति गच्छति कलशम् । वाजमन्नं सहस्रिणं सहस्रसंख्याकं यजमानाय प्रदातुं गच्छन् द्रोणकलशं प्रविशन्नर्षतीत्यर्थः उपूरणः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८