मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् २

संहिता

ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥

पदपाठः

ए॒तम् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

एतमिन्दुं क्लिद्यमानं हरिं हरितवर्णं सोमं त्रितस्य ऋषेर्योषणोंगुलयोद्रिभिः हिन्वन्ति इन्द्रायेन्द्रस्य पीतये पानाय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८