मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् ३

संहिता

ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ ।
याभि॒र्मदा॑य॒ शुम्भ॑ते ॥

पदपाठः

ए॒तम् । त्यम् । ह॒रितः॑ । दश॑ । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।
याभिः॑ । मदा॑य । शुम्भ॑ते ॥

सायणभाष्यम्

एतं त्यं तं सोममध्वर्योर्दश हरितो हरणस्वभावा अंगुलयः अपस्युवः कर्मेच्छवः सत्योमर्मृज्यन्ते शोधयन्ति याभिरन्द्रस्य मदाय शुंभते दीप्यते शोध्यतइत्यर्थः तं एतमिति संबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८