मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् ४

संहिता

ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।
गच्छ॑ञ्जा॒रो न यो॒षित॑म् ॥

पदपाठः

ए॒षः । स्यः । मानु॑षीषु । आ । श्ये॒नः । न । वि॒क्षु । सी॒द॒ति॒ ।
गच्छ॑न् । जा॒रः । न । यो॒षित॑म् ॥

सायणभाष्यम्

स्यः सएषसोमो मानुषीषु विक्षु प्रजासु यजमानरूपासु अनुग्रहेण आसीदति श्येनोन श्येनइव । पुनः कइव योषितं गच्छन् अभिगच्छन् जारोन जारइव सयथा संकेतितः तस्याः कामपूरणाय गूढोगच्छति तद्वदित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८