मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् ५

संहिता

ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशु॑ः ।
य इन्दु॒र्वार॒मावि॑शत् ॥

पदपाठः

ए॒षः । स्यः । मद्यः॑ । रसः॑ । अव॑ । च॒ष्टे॒ । दि॒वः । शिशुः॑ ।
यः । इन्दुः॑ । वार॑म् । आ । अवि॑शत् ॥

सायणभाष्यम्

स्यः सएषः मद्योमदनिमित्तोरसोवचष्टे सर्वमवपश्यति दिवः शिशुः द्युपुत्रः । तत्रोत्पत्तेः पुत्रत्वमस्य । यइन्दुर्दीप्तः सोमो वारं दशापवित्रमाविश- दाविशति सएषइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८