मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३८, ऋक् ६

संहिता

ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।
क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥

पदपाठः

ए॒षः । स्यः । पी॒तये॑ । सु॒तः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।
क्रन्द॑न् । योनि॑म् । अ॒भि । प्रि॒यम् ॥

सायणभाष्यम्

एषस्यः ससोमः पीतये पानाय सुतोभिषुतो हरिर्हरितवर्णो धर्णसिर्धारकः प्रियं स्वप्रियभूतं योनिंस्थानं द्रोणकलशं कंदन् शब्दयन् अभ्यर्षति गच्छति ॥ ६ ॥

आशुरर्षेति षळृचं पंचदशं सूक्तं आंगिरसस्य बृहन्मतेरार्षं गायत्रं पवमानसोमदेवताकम् । आशुरर्षबृहन्मतिरित्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८