मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् १

संहिता

आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ ।
यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥

पदपाठः

आ॒शुः । अ॒र्ष॒ । बृ॒ह॒त्ऽम॒ते॒ । परि॑ । प्रि॒येण॑ । धाम्ना॑ ।
यत्र॑ । दे॒वाः । इति॑ । ब्रव॑न् ॥

सायणभाष्यम्

हे बृहन्मते महामते सोम प्रियेण देवानां प्रियतमेन धाम्ना शरीरेण धारया आशुः शीघ्रःसन् पर्यर्ष परिगच्छ । यत्रदेवाइन्द्रादयो वर्तन्ते इतिब्रवन् ब्नुवन्नुच्चारयन् तां दिशं गच्छामीति ब्रुवन्नित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९