मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् २

संहिता

प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ ।
वृ॒ष्टिं दि॒वः परि॑ स्रव ॥

पदपाठः

प॒रि॒ऽकृ॒ण्वन् । अनिः॑ऽकृतम् । जना॑य । या॒तय॑न् । इषः॑ ।
वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे सोम अनिष्कृतं संस्कृतं यजमानं स्थानं वा परिष्कृण्वन् संस्कुर्वन् जनाय यागकर्त्रे इषोन्नानि यातयन् निर्गमयन् दिवोन्तरिक्षात् वृष्टिं परिस्रव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९