मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३९, ऋक् ३

संहिता

सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा ।
वि॒चक्षा॑णो विरो॒चय॑न् ॥

पदपाठः

सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ । त्विषि॑म् । दधा॑नः । ओज॑सा ।
वि॒ऽचक्षा॑णः । वि॒ऽरो॒चय॑न् ॥

सायणभाष्यम्

सुतोभिषुतः सोमःसन् पवित्रे दशापवित्रे आइत्यनर्थकः ओजसा बलेन शीघ्रं एति गच्छति । कीदृशःसन् त्विषिं दीप्तिं दधानो धारयन् विचक्षणः सर्वं पश्यन् विरोचयन् दीपयंश्च । किं देवानितिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९