मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४०, ऋक् १

संहिता

पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
शु॒म्भन्ति॒ विप्रं॑ धी॒तिभि॑ः ॥

पदपाठः

पु॒ना॒नः । अ॒क्र॒मी॒त् । अ॒भि । विश्वाः॑ । मृधः॑ । विऽच॑र्षणिः ।
शु॒म्भन्ति॑ । विप्र॑म् । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

पुनानः पूयमानो विचर्षणिः द्रष्टा सोमः विश्वा सर्वान्मृधोहिंसकान् शत्रूनभ्यक्रमीत् अतिक्रान्तवान् तं विप्रं मेधाविनं धीतिभिः कर्मभिरभिष- वादिभिः स्तुतिभिर्वा शुंभन्ति दीपयंत्यलंकुर्वन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०