मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४०, ऋक् २

संहिता

आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
ध्रु॒वे सद॑सि सीदति ॥

पदपाठः

आ । योनि॑म् । अ॒रु॒णः । रु॒ह॒त् । गम॑त् । इन्द्र॑म् । वृषा॑ । सु॒तः ।
ध्रु॒वे । सद॑सि । सी॒द॒ति॒ ॥

सायणभाष्यम्

अयमरुणोरुणवर्णः सोमो योनिं स्थानं द्रोणकलशमारुहदारोहति ततइन्द्रं गमद्गच्छति । कुतः सन्नयं वृषावर्षकः फलानां सुतोभिषुतः सन् गत्वा ध्रुवेसदसि स्थिरेस्थाने द्युलोकाख्ये सीदति निवसति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०