मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४०, ऋक् ३

संहिता

नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥

पदपाठः

नु । नः॒ । र॒यिम् । म॒हाम् । इ॒न्दो॒ इति॑ । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

हे सोमाभिषुतस्त्वं हे इन्दो नोस्मभ्यं नु क्षिप्रं महां महान्तं सहस्रिणं असंख्यातं रयिं धनं विश्वतः आपवस्व सर्वतः परिस्रव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०