मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४०, ऋक् ४

संहिता

विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र ।
वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥

पदपाठः

विश्वा॑ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि॑ । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ।
वि॒दाः । स॒ह॒स्रिणीः॑ । इषः॑ ॥

सायणभाष्यम्

हे सोम पवमान पूयमान इन्दो दीप्त त्वं विश्वा सर्वाणि बहुविधानि द्युम्नानि द्रविणानि आभराहर । विदाः लंभयच सहस्रिणीः सहस्रसंख्याकानि इषोन्नानि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०