मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४०, ऋक् ५

संहिता

स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् ।
ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥

पदपाठः

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ।
ज॒रि॒तुः । व॒र्ध॒य॒ । गिरः॑ ॥

सायणभाष्यम्

हे सोम सत्वं नोस्मभ्यं स्तोत्रे स्तोतृभ्यः पुनानः पूयमानोभिषूयमाणः आ भराहर । किं रयिं धनम् । कीदृशं सुवीर्यं सुपुत्रम् । किंच जरितुः स्तोतुर्गिरः स्तुतीः वर्धय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०