पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।
वृष॑न् । इ॒न्दो॒ इति॑ । नः॒ । उ॒क्थ्य॑म् ॥
हे इन्दो सोम पुनानः पूयमानस्त्वं आभराहर । किं रयिं धनम् । कीदृशं धनं द्विबर्हसं संधयोर्द्युपृथिव्याख्ययोः स्थानयोः परिवृढम् । तदेवाह हे इन्दो वृषन् वर्षक नोस्मभ्यं उक्थ्यं स्तुत्यं धनमाभर ॥ ६ ॥
प्रयोगावइति षळृचं सप्तदशं सूक्तं काण्वस्य मेध्यातिथेरार्षं गायत्रं पवमानसोमदेवताकं तथाचानुक्रान्तं-प्रयेगावोमेध्यातिथिरिति । गतोविनियोगः ।