मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४१, ऋक् १

संहिता

प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
घ्नन्त॑ः कृ॒ष्णामप॒ त्वच॑म् ॥

पदपाठः

प्र । ये । गावः॑ । न । भूर्ण॑यः । त्वे॒षाः । अ॒यासः॑ । अक्र॑मुः ।
घ्नन्तः॑ । कृ॒ष्णाम् । अप॑ । त्वच॑म् ॥

सायणभाष्यम्

ये अभिषुताः सोमाः गावोन उदकानीव तानि यथा तूर्णमधः पतन्ति तद्वत् एवंचोपमीयन्ते । यद्वा गावः स्वगोष्ठं प्रत्याशु गच्छन्ति तद्वत् । अथवा गावः स्तुतिवाचः तायथा स्तुत्यं प्रति क्षिप्रं प्राप्नुवन्ति तद्वत् । भूर्णयः क्षिप्राः त्वेषाः दीप्ताः अयासः अयाः गमनशीलाः कृष्णां त्वचं कृष्णा त्वग्रक्षाः तं निघ्नंतः । त्वचिः संवरणकर्मा । ईदृग्भूताः सोमाः अक्रमुः तान् स्तुवतेतिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१