मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४१, ऋक् ३

संहिता

शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।
चर॑न्ति वि॒द्युतो॑ दि॒वि ॥

पदपाठः

शृ॒ण्वे । वृ॒ष्टेःऽइ॑व । स्व॒नः । पव॑मानस्य । शु॒ष्मिणः॑ ।
चर॑न्ति । वि॒ऽद्युतः॑ । दि॒वि ॥

सायणभाष्यम्

शृण्वे श्रूयते किं सोमस्वनः । किमिव वृष्टेर्वर्षणस्य स्वनइव तस्य यथा महान् स्वनः श्रूयते तद्वत् पुभूतरसापातसमये श्रूयते । कस्य स्वनइति तत्राह पवमानस्य पूयमानस्य शुष्मिणोबलवतः तस्यैव विद्युतोदीप्तयो दिव्यन्तरिक्षे चरन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१