मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४१, ऋक् ४

संहिता

आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् ।
अश्वा॑व॒द्वाज॑वत्सु॒तः ॥

पदपाठः

आ । प॒व॒स्व॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।
अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ॥

सायणभाष्यम्

हे इन्दो सोम सुतोभिषुतस्त्वं महीमिषं महदन्नं आपवस्व । कीदृशमन्नं गोमत् बहुगोभिरुपेतं एवं हिरण्यवत् हिरण्यैः अश्ववत् अश्वैः वाजवत् वाजैर्बलैश्चोपेतं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१