मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४१, ऋक् ५

संहिता

स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
उ॒षाः सूर्यो॒ न र॒श्मिभि॑ः ॥

पदपाठः

सः । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । आ । म॒ही इति॑ । रोद॑सी॒ इति॑ । पृ॒ण॒ ।
उ॒षाः । सूर्यः॑ । न । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

हे विचर्षणे विद्रष्टः सोम स्त्वं पवस्व क्षर रसम् । तथा कृत्वा तेनरसेन मही महत्यौ रोदसी द्यावापृथिव्यौ आपृण आपूरय उषाः उषसाः एकदेशवाचिनोषःशब्देन तदुपलक्षितमहरुच्यते तत् प्राधान्यात् अहानि रश्मिभिः सूर्योन सूर्यइव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१