परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ ।
सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥
परि॑ । नः॒ । श॒र्म॒ऽयन्त्या॑ । धार॑या । सो॒म॒ । वि॒श्वतः॑ ।
सर॑ । र॒साऽइ॑व । वि॒ष्टप॑म् ॥
हे सोम नोस्मभ्यं शर्मयंत्या सुखयन्त्या धारया विश्वतः सर्वतः परिसर परिचर रसेव रसेनेव विष्टपं भूलोकम् । यद्वा रसा नदी स्थानं सा प्रवणरूप- मिव ॥ ६ ॥
जनयन्निति षळृचमष्टादशंसूक्तं ऋष्याद्याः पूर्ववत् । जनयन्नित्यनुक्रान्तम् । गतोविनियोगः ।