मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४२, ऋक् १

संहिता

ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् ।
वसा॑नो॒ गा अ॒पो हरि॑ः ॥

पदपाठः

ज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् ।
वसा॑नः । गाः । अ॒पः । हरिः॑ ॥

सायणभाष्यम्

अयं हरिः सोमो दिवोद्युसंबन्धीनि रोचना रोचनानि नक्षत्रग्रहमंडलानि जनयन् तथा अप्स्वन्तरिक्षे सूर्यंच जनयन् तथा गाः अधोगंत्रीरपोवसानो भूमिमात्मानंषा आच्छादयन् पवतइत्युत्तरत्र संबंधः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२