मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४२, ऋक् ३

संहिता

वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये ।
सोमा॑ः स॒हस्र॑पाजसः ॥

पदपाठः

व॒वृ॒धा॒नाय॑ । तूर्व॑ये । पव॑न्ते । वाज॑ऽसातये ।
सोमाः॑ । स॒हस्र॑ऽपाजसः ॥

सायणभाष्यम्

वावृधानाय वर्धमानाय तूर्वये क्षिप्राय वाजसातये संग्रामायान्नलाभायवा पवन्ते पूयन्ते के सोमाः । कीदृशाः सहस्रपाजसो परिमितबलाः असंख्या- तवेगाइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२