मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४२, ऋक् ४

संहिता

दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।
क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥

पदपाठः

दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।
क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥

सायणभाष्यम्

प्रत्नमित् पुराणमेव पयोरसं दुहानः दधानः सोमाः पवित्रे परिषिच्यते । किंच क्रन्दन् शब्दं कुर्वन् देवानजीजनत् जनयति स्वसमीपे यत्र सोमो- भिषूयते तत्र देवानियतं प्रादुर्भवन्ति अतो जनयतीत्युपचर्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२