मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४२, ऋक् ६

संहिता

गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
पव॑स्व बृह॒तीरिषः॑ ॥

पदपाठः

गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ।
पव॑स्व । बृ॒ह॒तीः । इषः॑ ॥

सायणभाष्यम्

हे सोम सुतस्त्वं नोस्मभ्यं गोमत् गोभिर्युक्तं वीरवद्बहुभिः वीरैरुपेतं अश्वावदश्वैर्युक्तं वाजवद्वाजैर्बलैः संग्रामैर्वोपेतं धनं बृहतीरिषः प्रभूतान्य- न्नानि पवस्व प्रयच्छेत्यर्थः ॥ ६ ॥

योअत्यइवेति षळृचमेकोनविंशंसूक्तं ऋष्याद्याःपूर्ववत् योअत्यइवेत्यनुक्रान्तं गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२