मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् १

संहिता

यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः ।
तं गी॒र्भिर्वा॑सयामसि ॥

पदपाठः

यः । अत्यः॑ऽइव । मृ॒ज्यते॑ । गोभिः॑ । मदा॑य । ह॒र्य॒तः ।
तम् । गीः॒ऽभिः । वा॒स॒या॒म॒सि॒ ॥

सायणभाष्यम्

यः सोमः अत्यइव अतनशीलोश्वइव गोभिर्वस्तीवरीभिराद्भिर्गोविकारैः पयाआदिभिर्वा मृज्यते मिश्र्यते किमर्थं मदाय देवानाम् । कीदृशोयः हर्यतः कान्तः तं सोमं गीर्भिः स्तुतिभिर्वासयामसि वासयामः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३