मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् २

संहिता

तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ ।
इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥

पदपाठः

तम् । नः॒ । विश्वाः॑ । अ॒व॒स्युवः॑ । गिरः॑ । शु॒म्भ॒न्ति॒ । पू॒र्वऽथा॑ ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

तमिन्दुं सोमं नोस्माकं विश्वाः सर्वाअवस्युवः अवोरक्षणं तदिच्छंत्योगिरः स्तुतयः पूर्वथा पूर्वमिव पूर्वं यथा तथैवेदानीमपि शुंभन्ति दीपयंति किमर्थमिन्द्रायेन्द्रस्य पीतये पानाय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३