मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् ३

संहिता

पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः ।
विप्र॑स्य॒ मेध्या॑तिथेः ॥

पदपाठः

पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः ।
विप्र॑स्य । मेध्य॑ऽअतिथेः ॥

सायणभाष्यम्

पुनानः पूयमानोहर्यतः कमनीयः सोमोगीर्भिः परिष्कृतः स्तुतिभिरलंकृतोयाति कलशंप्रति । किमर्थं विप्रस्य मेधाविनो मेध्यातिथेर्ममयागार्थं यद्वा ममगीर्भिरिति संबंधः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३