मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् ५

संहिता

इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ ।
यदक्षा॒रति॑ देव॒युः ॥

पदपाठः

इन्दुः॑ । अत्यः॑ । न । वा॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्रे॑ । आ ।
यत् । अक्षाः॑ । अति॑ । दे॒व॒ऽयुः ॥

सायणभाष्यम्

यः इन्द्रुः वाजसृत् संग्रामसरणः अत्योन अश्वइव पवित्र आ पवित्रे कनिक्रन्ति शब्दं करोति यद्यदा अक्षाः क्षरति । क्षरसंचलने इत्यस्माच्छान्दसे लुङि तिपि सिच् बहुलंछन्दसीतीडभावः इडभावश्च रात्सस्येतिसलोपः । देवयुर्देवकामः सन् तदा अतिशब्दं करोति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३