मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४३, ऋक् ६

संहिता

पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व॑ सु॒वीर्य॑म् ॥

पदपाठः

पव॑स्व । वाज॑ऽसातये । विप्र॑स्य । गृ॒ण॒तः । वृ॒धे ।
सोम॑ । रास्व॑ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे सोम पवस्व क्षर । किमर्थं वाजसातयेन्नस्य लाभाय । तथा गृणतः स्तुवतो विप्रस्य मम मेध्यातिथेर्वृधे वर्धनायच हे सोम सुवीर्यं शोभनवीर्यो- पेतं पुत्रंच रास्व देहीति ॥ ६ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये षष्ठाष्टकेष्टमोध्यायः ॥ ८ ॥

॥ इतिषष्ठोष्टकः समाप्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३