मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् १

संहिता

प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि ।
अ॒भि दे॒वाँ अ॒यास्य॑ः ॥

पदपाठः

प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । तने॑ । ऊ॒र्मिम् । न । बिभ्र॑त् । अ॒र्ष॒सि॒ ।
अ॒भि । दे॒वान् । अ॒यास्यः॑ ॥

सायणभाष्यम्

यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । नर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ सप्तमाष्टकस्य प्रथमोध्यायाअरभ्यते । प्रणइति षळृचं विंशं सूक्तं आंगिरसस्या यास्यस्यार्षं गायत्रं पवमानसोमदेवताकं तथाचानुक्रान्तं—प्रणोयास्यइति । गतोविनियोगः ।

हे इन्द्रो सोम त्वं नोस्माकं महे महते तने धनाय प्रार्षसि प्रगच्छसि । न संप्रति अया- स्यः स्वयं ऋषिस्तवोर्मिं तरंगं बिभ्रत् धारयन् देवानभिगच्छति यष्टुं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः