मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् ४

संहिता

स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् ।
ब॒र्हिष्माँ॒ आ वि॑वासति ॥

पदपाठः

सः । नः॒ । प॒व॒स्व॒ । वा॒ज॒ऽयुः । च॒क्रा॒णः । चारु॑म् । अ॒ध्व॒रम् ।
ब॒र्हिष्मा॑न् । आ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

हे सोम यं त्वां बर्हिष्मानृत्विगाविवासति परिचरति सत्वं नोस्मदर्थं वाजयुरन्नमि- च्छन्नध्वरं हिंसारहितं यागं च चारुं कल्याणं चक्राणः कुर्वन् पवस्व क्षर ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः