मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४४, ऋक् ५

संहिता

स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः ।
सोमो॑ दे॒वेष्वा य॑मत् ॥

पदपाठः

सः । नः॒ । भगा॑य । वा॒यवे॑ । विप्र॑ऽवीरः । स॒दाऽवृ॑धः ।
सोमः॑ । दे॒वेषु॑ । आ । य॒म॒त् ॥

सायणभाष्यम्

सपवमानः सोमो वायवे वायुदेवार्थं भगाय भगदेवार्थं च विप्रवीरोविप्रैर्मेधाविभिः स्तुत्या प्रेरितः सदावृघोनित्यवृद्धोभवन् नोस्मभ्यं देवेषु स्थितं धनमायमदाप्रयच्छतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः