मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् १

संहिता

स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥

पदपाठः

सः । प॒व॒स्व॒ । मदा॑य । कम् । नृ॒ऽचक्षाः॑ । दे॒वऽवी॑तये ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

हे इन्द्रो सोम नृचक्षाः नॄणां नेतॄणां द्रष्टः सत्वं देववीतये यज्ञायेन्द्रायेन्द्रस्य पीतये पानाय च मदाय मदार्थं च कं सुखं यथा भवति तथा पवस्व क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः